ब्रह्मचारिणी देवी स्तोत्रम्
॥ ब्रह्मचारिणी देवी स्तोत्रम् ॥
नमामि त्वां तपस्विनि, ब्रह्मचारिणि मातृके ।
जपमाला-करस्थिते, कमंडलुधरा शुभे ॥१॥
दर्शनं ते तपोमूर्ते, पावनं मनशुद्धये ।
तपशक्तिं देहि मे नित्यं, साधकानुग्रहे कृपे ॥२॥
अहर्निशं तपश्चर्या, योगमार्गे स्थिते शुभे ।
त्यागमूर्ती, शांतिरूपे, भक्तार्तिहरि अम्बिके ॥३॥
उग्रताप-सहस्राणि, सह्यं त्वयि प्रसिद्धकम् ।
अचल निश्चयं देहि, कार्यसिद्धि-विनायकम् ॥४॥
वायुभक्षा तपस्विनि, हिमगिरी-निलये शुभे ।
शंकरप्राप्तिकामुक्ते, पार्वतीत्वं प्रकाशये ॥५॥
नारायणी नमस्तुभ्यं, तिस्त्रिलोकप्रदायकम् ।
भक्तानां वरदां नित्यं, मोक्षमार्गप्रदीपिके ॥६॥
कष्टनाशिनि देवि त्वं, मनोबल-वर्धिनि शुभे ।
भक्तियोग-प्रसूते त्वं, विज्ञानप्रसवेश्वरी ॥७॥
विनयेन प्रार्थये मातः, तपोदीक्षां त्वमेव मे ।
योगक्षेमं विदध्याशु, कृपाकटाक्ष-पालये ॥८॥
॥ इति ब्रह्मचारिणी देवी स्तोत्रम् ॥
No comments:
Post a Comment